नागपञ्चमी...
*नागपंचमी* 🐍🐍
अस्माकं देशे जनाः उत्सवप्रियाः। आवर्षमुत्सवानामायोजनं भवति। रामनवमीतः समारब्धा एते उत्सवाः होलिकापर्यन्तं निरन्तरं प्रचलन्ति। तेषु पर्यावरणसंरक्षणं-सामाजिकसौहार्दं- संस्कृतिदर्शनं पूर्वजानां संस्काराः दरीदृश्यन्ते। आषाढैकादशीतः आरभ्य कार्तिकैकादशीपर्यन्तं चातुर्मासः अस्माकं देशे सर्वत्र मन्यते। उत्सवेषु चातुर्मासः तु मुकुटमणिरिव राजते। तस्मिन्नपि श्रावणमासः उत्सवमासः ।
श्रावणे शुद्धा/शुक्लपक्षीया पञ्चमी नागपञ्चमीरूपेण मन्यते आभारते। भित्तिकायां कुङ्कुमगन्धेन नागप्रतिमारेखणं कृत्वा जनाः नागपूजनं कुर्वन्ति। अधुना नगरेषु मृद्भित्तिकाभावात् कागदे नागप्रतिमारेखणं भवति।
कतिपयाः जनाः पृच्छन्ति किमर्थं नागपूजनम्? नागाः तु विषधराः। विदंश्य प्राणान् घ्नन्ति। परं सर्पाः स्वयमेव आगत्य नैव कदापि दशन्ति। अपायः दृष्ट्वैव दशन्ति।
अस्माकं संस्कृतिः पर्यावरणपालिका वैज्ञानिकी च। अस्मिन् वर्षाकाले सरीसृपाणां भूगर्भवासः जलाप्लावितो भवति। अतः ते बहिरागच्छन्ति। यदाकदा अस्माकं गृहे अपि अतिथिरूपेण आगच्छन्ति। अतिथिदेवो भव इति न्यायेन जनाः तेषां स्वागतं कुर्वन्ति। अधुना तु सर्पमित्राणि आगत्य तान् सर्पान् नैसर्गिकवासे त्यजन्ति। वस्तुतोऽस्मिन् काले सस्यारोपणं वर्धनं च भवति। मूषका अन्यकृमिकीटकाः सस्यानि नाशयन्ति। सर्पाः मूषकान् कीटकान् च खादन्ति। तेन सस्यरक्षणं जायते। कृतज्ञताज्ञापनार्थं नागपूजनस्य विधानमस्ति। यतः सर्पाः कृषकमित्रं मन्यन्ते। पश्यन्तु कियती गरिमामयी अस्माकं संस्कृतिः परम्परा च। तथा च कियन्तः बुद्धिमन्तः निसर्गानुरागिणोsस्माकं ऋषयः पूर्वजाश्च। पञ्चभूतात्मिकी एषा सृष्टिः परस्परसहायेन मनोरमा जायते। सर्वेषु भूतेषु नारायणः, इति ज्ञात्वा उत्सवानामायोजनं भवति।
नागपञ्चमीदिने भूखननकर्तनभर्जनानि वर्जितानि। नागानां प्रजननकालोsयम्। तेषां प्रजननं वल्मीकेषु जायते। वर्षाकारणात् ते बहिरागत्य कदाचित् क्षेत्रेषु निवसन्ति। अतः तेषां हननं न भवेदिति उद्देश्यम्। कस्यां सस्कृत्यां पर्यावरणस्य भूतानां वा विषये एतादृशं सूक्ष्मं चिन्तनं विद्यते? तथापि अधुना अपि बहवः एतद्देशीयाः अस्मान् अज्ञान् मन्यन्ते।
वसुधैव कुटुम्बकमेतत् भारतीयसंस्कृतेः मूलमन्त्रम्। अतः सर्वे कुटुम्बिनः सुरक्षिताः भवेयुः, तादृशं चिन्तनं सर्वेषु उत्सवेषु प्रतिदिनं व्यवहारे दिनचर्यायां वा दरीदृश्यते।
ब्रिटिशशासनकाले भारतः स देशः यत्र सर्पक्रीडकाः अशिक्षिताः जीवन्ति, इति धारणा प्रबला आसीत् । बलादेव एतादृशः प्रचारः सर्वकारेण कृतः। परं अधुना विश्वस्य पर्यावरणतज्ञाः अस्माकं संस्कृतेः शास्त्रीयतां जानन्ति। महाराष्ट्रे नागपञ्चमीतिथौ सर्पपूजा विधीयते। जीवतः सर्पस्य सर्पपालकः ( सपेरा इति भाषा) यस्मिन् गृहे सर्पो दृश्यते, तत्र प्रत्येकं गृहं प्रति आनीयते। जनाः सर्पाय दुग्धं तथा पालकाय धनधान्यं यच्छन्ति। सर्पाय दुग्धं न देयमिति न जानन्ति जनाः। पालकः सर्पं दिनद्वयपूर्वतः बुभुक्षया पीडयति। अतः बुभुक्षितः सर्पः दुग्धं पिबति। अधुना एषा परम्परा सर्वकारस्य च अन्धश्रद्धानिर्मूलसमितेः प्रयासेन खण्डिता।
साङ्गलीजनपदे बत्तीसशिराळाग्रामे सर्पान् जनाः नैव हन्ति। अस्मिन् दिने महान् उत्सवो भवति तत्र। सामान्यजनानां देहे अपि सर्पाः क्रीडन्ति । वैदेशिकाः अपि तत्र आगच्छन्ति। परं विगतवर्षद्वयात् कोरोनाकारणात् सार्वजनिकोत्सवः नैव भवति।
भगवता निर्मिता इयं सृष्टिः तदैव मनोहारिणी भवति यदा वयं चराचरसृष्टौ विद्यमानैः सर्वैः सह सौहार्दपूर्णं व्यवहारं कुर्मः।
सर्पाः तु महादेवस्य आभूषणानि। भगवान् विष्णुरपि शेषशय्यायां विराजते। यमनन्तं स्वयं सृष्टिकर्ता लालयति स तु अस्माकं पूजनीय एव।
*संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।*
*देवा भागं यथा पूर्वे सञ्जानाना उपासते।।*
न केवलं मनुजाः अपितु चराचरसृष्टेः सर्वे मानवाः परस्परसहायेन निश्चयेन अस्मिन् जन्मनि एव भगवन्तं प्राप्तुं शक्नुवन्ति इति एतादृशं वैश्विकचिन्तनं भवति वेदेषु।
लेखिका - मानसी दीक्षित।
Comments
Post a Comment