प्रज्ञाभारती वर्णेकरवर्यः
प्रज्ञाभारती
प्रज्ञाभारती श्रीधर भास्कर वर्णेकर महोदयः नागपुरस्य भूषणः। सह्रदयकविः , क्रान्तदर्शीलेखक:, धाराप्रवाह वक्ता, बहुभाषाविद् महोदयः संस्कृतस्य प्रचारप्रसारार्थमाजीवनं प्रयतत्। 20 वर्षपर्यन्तं महोदयः व्रतरूपेण केवलं संस्कृतेनैव अभाषत।
संस्कृते महोदयेन महाकाव्य-नाटक-कथा-ललितलेखनं च कृतम्। शिवराज्योदयम् नाम्नः महोदयस्य महाकाव्यं प्रसिद्धम्। तस्मिन् ६४ सर्गाः सन्ति। महाराष्ट्रदैवतस्य शिवरायस्य पराक्रमस्य ओजस्वीवर्णनं तस्मिन् विद्यते। महोदयस्य भाषा सरला सुबोधा च। कथावल्लरी नाम्ना कथासङ्ग्रहे सम्मिलिताः सर्वकथाः स्वदेशप्रेम्ना परिपूर्णाः।
विवेकानंदविजयमिति नाटके विवेकानंदस्य धवलजीवनचरित्रस्य सात्विकशब्दचित्रं सुबोधभाषया वर्णितम् महोदयेन।
महोदयेन सुबोधमराठीभाषायां ज्ञानेश्वर्याः सुबोध ज्ञानेश्वरी नाम्ना समश्लोकी रचिता।
संस्कृतभवितव्यम् नाम्ना संस्कृतपत्रिकायाः स संस्थापकः सम्पादकश्च। आसप्ततिवर्षतः अविरततया एषा पत्रिका संस्कृतप्रचाराय लेखनीबध्दा। तस्यां देशविदेशस्थाः संस्कृतज्ञाः लेखनं कुर्वन्ति।
संस्कृतवाङ्गमयकोश एतस्य बृहत्ग्रन्थस्य लेखनमपि महोदयेन कृतम्। तस्मिन् त्रय: खण्डा: वर्तन्ते । ग्रन्थकार खण्ड:,ग्रन्थ खण्ड:,परिभाषा खण्डश्च। रामायण-महाभारत-अष्टादशपुराणत: आधुनिककालस्य ग्रन्थकारानां ग्रन्थानां परिचय:तस्मिन् विद्यते। संस्कृतजनानां कृते बहूपयोगी ग्रन्थ एष:। संस्कृतजगति एतेन महोदयेन महान् उपकार: कृत:।
भवत्सदृश: विद्वान्-बह्वायामि-अद्भूत् प्रतिभावान्-प्रखरराष्ट्रप्रेमीव्यक्तेः निवासेन नागपुरस्य मृत्तिका तिलक इव पवित्रा जाता।
मानसी दीक्षित
Comments
Post a Comment