जगद्गुरुः आदिशङ्कराचार्यः
आदिशङ्कराचार्यः……
येषां केवलं नामोच्चारणेन अस्माकं ग्रीवा गर्वेन उन्नता भवेत्। वयं नतमस्तकाः भवाम।येषां प्रातःस्मरणेन अस्माकं दिनप्रारम्भः भवेत् तथा च अपराधक्षमापनस्तोत्रेण निशा उज्ज्वलयेत तादृशं आचार्यं भूयोभूयो नम्यामहम्।
अद्वैतवेदान्तस्य उद्गाता एवं सनातनहिन्दुधर्मस्य संरक्षकमहान्तत्त्वज्ञस्य आद्य शंकराचार्यस्य जीवनकार्यं अतुलनीयम्।तेन अणुवादं तथा कर्मकाण्डवादं निष्कास्य अद्वैतवेदान्तसिद्धान्तः प्रतिपादितः।
अष्टशततमे वर्षे कन्याकुमारीतः काश्मिरपर्यंन्तं,द्वारकातः जगन्नाथपुरीपर्यंन्तं सम्पूर्णदेशे भ्रमणं कृत्वा हिन्दुधर्मं सञ्जीवनी प्रदत्ता।द्वारका-पुरी-श्रुङ्गेरी-बदरीकेदार एतेषु स्थानेषु धर्मपीठानां स्थापनां कृत्वा मठआचार्यपरम्परायाः पुनरुज्जीवनं कृतम्।
प्रस्थानत्रयीषु आचार्यस्य भाष्यग्रन्थाः प्रसिद्धाः।संदर्भग्रन्थरूपेण उपयुज्यन्ते अभ्यासकैः। गीताभाष्यं, विष्णुसहस्रनामभाष्यं, विवेकचूडामणिः अन्यतमम्।इतोपि नैकेषु विषयेषु भवतः भाष्यग्रन्थाः प्रसिद्धाः।
गणेश-शङ्कर-विष्णु-देवी-सूर्य-एतेषां पञ्चब्रह्मस्वरुपात्मकदेवतानां पञ्चायतपूजनस्य समन्वयः कृतः। एतानां देवतानां शताधिकानि स्तोत्राणि रचितानि। प्रतिदिनं जनाः तानि गीयन्ते। यतोहि आचार्यस्य भाषा सरला-सुबोधा-सुमधुरा च। पद्यरचनाः अनुप्रासाद्यलङ्कारयुता तथा प्रासादमाधुर्यगुणयुता तस्मात् सरलतया गानं शक्यम्।
चर्पटपञ्जरिकास्तोत्रं-निर्वाणषटकं- आनन्दलहरी -कनकधारा- अन्नपूर्णा -सौंदर्यलहरी- गङ्गाष्टकं -नर्मदाष्टकं- यमुनाष्टकं- गोविन्दाष्टकं- त्रिपुरासुन्दरीस्तोत्रं- निर्गुणमानसपूजा- शिवमानसपूजा- लक्ष्मीनृसिंह करावलम्बं… एतानि कतिपयानि सुप्रसिद्धानि।भक्तैः श्रद्धया गीयन्ते च। आचार्यः रसभावपूर्णः भक्तश्रेष्ठः। तेषां स्तोत्रेषु निहितेन विश्वप्रेमदर्शनेन करुणया च भक्ताः भक्तिसागरे निमज्जन्ते। स्तोत्रेभ्यः प्रवहन् भक्तिरसः-आचार्यस्य स्वानुभूतिश्च अस्मान् मूकास्वादनवत् सर्वाङ्गतृप्तिः प्रदायते।
गङ्गा- गीता- गायत्री- गोरक्षा- एतास्याः चतुःसूत्र्याः दैनन्दिनजीवने पालनं प्रतिष्ठितमाचार्येन। संञ्चारः - बोधः - जितेन्द्रियता- समभावः एते संन्यासीजीवनस्य चत्वारः स्तम्भाः। तदनुसारं आचरणेन संन्यासीजीवनस्य आदर्शः आचार्येन प्रतिष्ठितम्।
मठाम्नाय इत्यस्मिन् ग्रन्थे संन्यासप्रणालिः, चतुर्णां मठानां व्यवस्था कथं भवेत् दशनामी आखाडा एतस्य कार्यं,कुम्भपर्वणः विधाननीतिनियमसिद्धान्तानां विवेचनं कृतम्।
नास्तिकसिद्धान्ततस्य खण्डनं तथा च अद्वैतवेदान्तस्य प्रतिष्ठापनं एवं शैववैष्णवयोः वादनिर्मूलनं आचार्यस्य कार्येषु अनन्यतमम्।
मण्डनमिश्राचार्योः संवादः विश्वप्रसिद्धः। केवलं शब्दतर्कयोः अस्त्राणामुपयोगेन दिग्विजयः शक्य इति विशुद्धः भारतीयसूत्रः आचार्येन पुनर्स्थापितः।
आचार्यस्य जीवनकार्यं श्रुत्वा ज्ञात्वा वा वयं विस्मिताः भवामः। यस्मिन् वयसि अस्माकं जीवनकार्यस्य प्रारम्भः भवति तावत्पर्यन्तं आचार्येन कियत् महत्कार्यं कृतम्। एकस्मिन् जन्मनि तु आचार्यस्य अलौकिकमद्भूतं कार्यमवगन्तुं असमर्थाः वयम्। गुणवर्णने तु अस्माकं लेखणी वैखरी च मुग्धा भवति। ज्ञानावतारः ज्ञानेश्वरमाऊली अपि "भाष्यकाराते वाट पुसतु' "भाष्यकारं मार्गं पृच्छामि" इत्युक्त्वा आचार्यस्य तत्त्वज्ञानविषयकं सार्वभौमत्वं मन्यते।
आचार्यः नाम साक्षात शिवावतारः। भारतभूमेः अमूल्या चिरन्तना निधिः। गुरुपौर्णिमापर्वणि आचार्यस्य पादपङ्कजयोः नतमस्तकं भूत्वा, स्तोत्राणि गीत्वा, अलौकिकभक्तीरसे निमज्य तं परब्रह्मं प्रति गन्तुं मार्गक्रमणमस्माकं कर्तव्यम् ।
मानसी दीक्षित.
Comments
Post a Comment