Posts

संस्कृतावाक्....

संस्कृतावाक्…. अमृतमधुरा भाषा वाणी सा नित्यनूतना। वैखरी केवलं नैव पश्यन्ती मध्यमा परा।।      धर्मार्थकाममोक्षाणां संसिद्धिरनया यथा। पथप्रदर्शिका सा तु जीवनयापने तथा।। शिक्षाकल्पनिरुक्तञ्च छन्दव्याकरणन्तथा। वेदाङ्गेषु हि तत्सर्वं ज्योतिर्चिन्तनमेव च।। अभ्युदयाय मर्त्यस्य निःश्रेयसे यथैव च। वेदेषु वै पराज्ञानं आयुर्ज्ञानन्तथैव च।। ब्रह्मनिरुपणं सम्यक् उपनिषत्सु विद्यते। स्मृतिषु नियमो वै हि मानुषजीवनाय च।। पुराणेष्वितिहासेषु संस्कृतिदर्शनं यदा। मनोरमकथाभ्यश्च विनोदम्बोधनन्तदा।। मेध्या साहित्यगङ्गा तु निरन्तर प्रवाहिता। अन्यासु नैव भाषासु विश्वेsस्मिन् वै प्रवाहिता।। कार्याकार्यविवेकश्च रामायणे च भारते। विद्यते ब्रह्मसूत्रेषु अक्षरब्रह्मबोधनम्।। भारतस्याभिमानो वै गौरवं संस्कृतस्य हि। उक्ता भगवता गीता सर्वत्र भुवि विश्रुता।। जननी सर्वभाषाणां तथा संस्कृतिदर्पणम्। वैखरी सा तु सर्वेषां कण्ठे कण्ठे भवेत्सदा।। परमवैभवप्राप्तिः राष्ट्रगौरववर्धनम्। निहिते संस्कृते नित्यं तस्मात् वदतु संस्कृतम्।। मानसी दीक्षित।

नागपञ्चमी...

*नागपंचमी* 🐍🐍 अस्माकं देशे जनाः उत्सवप्रियाः। आवर्षमुत्सवानामायोजनं भवति।  रामनवमीतः  समारब्धा एते उत्सवाः होलिकापर्यन्तं निरन्तरं प्रचलन्ति।  तेषु पर्यावरणसंरक्षणं-सामाजिकसौहार्दं- संस्कृतिदर्शनं पूर्वजानां संस्काराः दरीदृश्यन्ते। आषाढैकादशीतः आरभ्य कार्तिकैकादशीपर्यन्तं चातुर्मासः अस्माकं देशे सर्वत्र मन्यते। उत्सवेषु चातुर्मासः तु मुकुटमणिरिव राजते।  तस्मिन्नपि श्रावणमासः उत्सवमासः ।  श्रावणे शुद्धा/शुक्लपक्षीया पञ्चमी नागपञ्चमीरूपेण मन्यते आभारते। भित्तिकायां कुङ्कुमगन्धेन नागप्रतिमारेखणं कृत्वा जनाः नागपूजनं कुर्वन्ति। अधुना नगरेषु मृद्भित्तिकाभावात् कागदे नागप्रतिमारेखणं भवति। कतिपयाः जनाः पृच्छन्ति किमर्थं नागपूजनम्? नागाः तु विषधराः। विदंश्य प्राणान् घ्नन्ति। परं सर्पाः स्वयमेव आगत्य नैव कदापि दशन्ति। अपायः दृष्ट्वैव दशन्ति।  अस्माकं संस्कृतिः पर्यावरणपालिका वैज्ञानिकी च। अस्मिन् वर्षाकाले सरीसृपाणां भूगर्भवासः जलाप्लावितो भवति। अतः ते बहिरागच्छन्ति। यदाकदा अस्माकं गृहे अपि अतिथिरूपेण आगच्छन्ति। अतिथिदेवो भव इति न्यायेन जनाः तेषां स्वागतं कुर्वन्त...

वामना मूर्तिः उन्नता कीर्तिः

*वामना मूर्तिः उन्नता कीर्तिः ….*  राजीवगान्धीखेलरत्नपुरस्कारप्राप्ता, पद्मश्रीउपाधिसम्मानिता,टोक्यो ऑलम्पिकक्रीडास्पर्धायां भारोत्तोलने रजतपदकप्राप्ता २६ वर्षीया वामना युवति मीराबाई चानु इतिहासं रचितवती। रजतपदकं विजित्य तया देशगौरवः हिमालय इव उन्नतः कृतः।  मणिपुरराज्ये एकस्मिन् लघुग्रामे सा जनिमलभत। गिरिप्रदेशे वास्तव्यात् प्रतिदिनमिन्धनाय वनं गत्वा काष्ठसङ्ग्रहणं तस्याः नित्यकार्यम्। तदा सा द्वादशवर्षीया बाला अग्रजादपेक्षया अधिकं भारं सोढुं समर्था। तदैव तस्याः भारोत्तोलनक्षमतां ज्ञात्वा परिवारेण तां भारोत्तोलनक्रीडायां गन्तुं प्रोत्साहितः। तस्याः ग्रामतः  विशेषप्रशिक्षणसंस्था (academy) ६० किलोमीटरयावत् दूरे स्थिता आसीत्। तत्र बसयानेन  गमनाय प्रतिदिनं धनमपेक्षितम्। अतः एकवारं सा भारवाहकयानेन गता। तस्मात् यदा चालकाः ज्ञातवन्तः सा प्रतिदिनं गच्छति स्म तदा ते भारवाहकचालकाः तां गमनागमनाय विनामूल्यं सहाय्यं कृतवन्तः। कृतोपकारान् स्मृत्वा मीराबाई रजतपदकप्राप्त्यानन्तरं तान् सर्वानन्विष्य स्वगृहे तेषां सर्वेषां सभाजनं कृतवती।   *न क्षुद्रोऽपि प्रथमसुकृतापेक्षया स...

मैत्र

मैत्री तुझ्या माझ्या नात्याला नाव हवे कशाला निरागस मैत्र आपले समजेल कसे जगाला     तुझ्या व्यथेने यावे माझ्या डोळ्यात पाणी     माझ्या सुरावटींची तुझ्या ओठावर गाणी तुझ्या सर्व दुःखात व्हावे मी सहभागी माझ्या उत्सवात असावे तु अग्रभागी      व्हावे माझ्या आनंदाने तु सलीलनयना      माझ्या डोळ्यात पाणी ठेच लागता तुला बंधन विसरून अंतराचे साद तु द्यावी मोहपाश सर्व तोडून मी धाव घ्यावी      वर्षातील एक दिवस पुरेल का या मैत्रीला      कच्चे धागे फ्रेंडशिपचे हवे आहेत कशाला अलौकिक मैत्रीचे स्नेहधागे गुंफावे कृष्णसुदाम्याचे स्वर्गीय मैत्र स्मरावे      विसरुन सारे ऋणानुबंध मैत्र असे जोडावे      जीवनाच्या वाळवंटात तु हिरवळ व्हावे मानसी दीक्षित

प्रज्ञाभारती वर्णेकरवर्यः

  प्रज्ञाभारती   प्रज्ञाभारती श्रीधर भास्कर वर्णेकर महोदयः नागपुरस्य भूषणः।  सह्रदयकविः , क्रान्तदर्शीलेखक:, धाराप्रवाह वक्ता, बहुभाषाविद् महोदयः संस्कृतस्य प्रचारप्रसारार्थमाजीवनं प्रयतत्। 20 वर्षपर्यन्तं महोदयः व्रतरूपेण केवलं संस्कृतेनैव अभाषत।          संस्कृते महोदयेन महाकाव्य-नाटक-कथा-ललितलेखनं च कृतम्। शिवराज्योदयम् नाम्नः महोदयस्य महाकाव्यं प्रसिद्धम्। तस्मिन् ६४ सर्गाः सन्ति। महाराष्ट्रदैवतस्य शिवरायस्य पराक्रमस्य ओजस्वीवर्णनं तस्मिन् विद्यते। महोदयस्य भाषा सरला सुबोधा च। कथावल्लरी नाम्ना कथासङ्ग्रहे सम्मिलिताः सर्वकथाः स्वदेशप्रेम्ना परिपूर्णाः।  विवेकानंदविजयमिति नाटके विवेकानंदस्य धवलजीवनचरित्रस्य सात्विकशब्दचित्रं सुबोधभाषया वर्णितम् महोदयेन।          महोदयेन सुबोधमराठीभाषायां ज्ञानेश्वर्याः सुबोध ज्ञानेश्वरी नाम्ना समश्लोकी रचिता।         संस्कृतभवितव्यम् नाम्ना संस्कृतपत्रिकायाः स संस्थापकः सम्पादकश्च। आसप्ततिवर्षतः अवि...

जगद्गुरुः आदिशङ्कराचार्यः

आदिशङ्कराचार्यः……  येषां केवलं नामोच्चारणेन अस्माकं ग्रीवा गर्वेन उन्नता भवेत्। वयं नतमस्तकाः भवाम।येषां प्रातःस्मरणेन अस्माकं दिनप्रारम्भः भवेत् तथा च अपराधक्षमापनस्तोत्रेण निशा उज्ज्वलयेत तादृशं आचार्यं भूयोभूयो नम्यामहम्। अद्वैतवेदान्तस्य उद्गाता एवं सनातनहिन्दुधर्मस्य संरक्षकमहान्तत्त्वज्ञस्य आद्य शंकराचार्यस्य जीवनकार्यं अतुलनीयम्।तेन अणुवादं तथा कर्मकाण्डवादं निष्कास्य अद्वैतवेदान्तसिद्धान्तः प्रतिपादितः। अष्टशततमे वर्षे कन्याकुमारीतः काश्मिरपर्यंन्तं,द्वारकातः जगन्नाथपुरीपर्यंन्तं सम्पूर्णदेशे भ्रमणं कृत्वा हिन्दुधर्मं सञ्जीवनी प्रदत्ता।द्वारका-पुरी-श्रुङ्गेरी-बदरीकेदार एतेषु स्थानेषु धर्मपीठानां स्थापनां कृत्वा मठआचार्यपरम्परायाः पुनरुज्जीवनं कृतम्। प्रस्थानत्रयीषु आचार्यस्य भाष्यग्रन्थाः प्रसिद्धाः।संदर्भग्रन्थरूपेण उपयुज्यन्ते अभ्यासकैः। गीताभाष्यं, विष्णुसहस्रनामभाष्यं, विवेकचूडामणिः अन्यतमम्।इतोपि नैकेषु विषयेषु भवतः भाष्यग्रन्थाः प्रसिद्धाः। गणेश-शङ्कर-विष्णु-देवी-सूर्य-एतेषां पञ्चब्रह्मस्वरुपात्मकदेवतानां पञ्चायतपूजनस्य समन्वयः कृतः। एतानां देवतानां शताधिकानि स्तोत्रा...

अपयशाकडे बघण्याचा दृष्टीकोण

 अपयशाकडे बघण्याचा दृष्टीकोण नमस्कार!.  जीवनाला आपण प्रवास म्हणतो. प्रवास म्हणजे त्यामध्ये खाचखळगे चढ-उतार आलेच. ते पार करूनच आपल्याला आपल्या गंतव्य स्थानापर्यंत पोहोचायचे असते. त्यातील खाचखळगे हेच यशापयशाचे प्रतीक आहे. जीवनात देखील पूर्ण यशस्वी माणूस सुद्धा कधी न कधी अपयशी झालेला असतोच. फक्त अपयशाचे गोडवे आपण गात नाहीत. नेहमी पोवाडे यशाचेच गायले जातात. त्यामुळे अपयशाला सर्वजण घाबरतात कारण अपयशाचा सामना कसा करायचा हे आपल्याला शिकवल्या जात नाही. पण आयुष्यामध्ये अपयशाला मागे टाकून पुढे जाणे याची शिकवण अतिशय आवश्यक आहे.  एडिसनने बल्बचा शोध लावला त्यासाठी त्याच्या यशाचे गीत गायले जाते पण बल्ब चा शोध 99 वेळेला चुकल्यानंतर शंभराव्या वेळेला यशस्वी झाला हे मात्र फार सांगितले जात नाही. बरेचदा प्रसिद्ध आणि यशस्वी माणसांच्या अपयशाचे देखील भांडवल केले जाते किंवा त्यांचे अपयश देखील सोनेरी किनार घेऊन झगमगत येते. पण सामान्य माणसाचे अपयश वारंवार त्याला तू किती नालायक आहेस हे सांगून अधोरेखित केले जाते. आणि तिथूनच त्या मनुष्याचा अधोगतीचा प्रवास सुरु होतो त्यामुळे कुठल्याही अपयशी मनुष्याच्य...